|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.58. अध्यायः 058
Mahabharata - Bhishma Parva - Chapter Topics
अर्जुनादियुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-58-0x(4124)(41133)
ततस्ते पार्थिवाः क्रुद्धाः फल्गुनं वीक्ष्य संयुगे।
रथैरनेकसाहस्रैः समन्तात्पर्यवारयन् ॥ 6-58-1(41134)
अथैनं रथबृन्देन कोष्ठकीकृत्य भारत।
शरैः सुबहुसाहस्रैः समन्तादभ्यवारयन् ॥ 6-58-2(41135)
शक्तीश्च विमलाकस्तीक्ष्णा गदाश्च परिघैः सह ।
प्रासान्परश्वथांश्चैव मुद्गरान्मुसलानपि ॥ 6-58-3(41136)
चिक्षिषुः समरे क्रुद्धाः फल्गुनस्य रथं प्रति।
शस्त्राणामथ तां वृष्टिं शलभानामिवायतिम् ॥ 6-58-4(41137)
रुरोध सर्वतः पार्थः शरैः कनकभूषणैः ।
तत्र तल्लाघवं दृष्ट्वा बीभत्सोरतिमानुषम् ॥ 6-58-5(41138)
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ।
साधुसाध्विति राजेन्द्र फल्गुनं प्रत्यपूजयन् ॥ 6-58-6(41139)
सात्यकिश्चाभिमन्युश्च महत्या सेकनया वृतौ ।
गान्धारान्समरे शूराञ्जग्मतुः सहसौबलान् ॥ 6-58-7(41140)
तत्र सौबलकाः क्रुद्धा वार्ष्णेयस्य रथोत्तमम् ।
तिशलश्चिच्छिदुः क्रोधाच्छस्त्रैर्नानाविधैर्युधि ॥ 6-58-8(41141)
सात्यकिस्तु रथं त्यक्त्वा वर्तमाने भयावहे ।
अभिमन्यो रथं तूर्णमारुरोह परंतपः ॥ 6-58-9(41142)
तावेकरथसंयुक्तौ सौबलेयस्य वाहिनीम् ।
व्यधमेतां शितैस्तूर्णं शरैःक सन्नतपर्वभिः ॥ 6-58-10(41143)
द्रोणभीष्मौ रणे यत्तौ धर्मराजस्य वाहिनीम् ।
नाशयेतां शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः ॥ 6-58-11(41144)
ततो धर्मसुतोक राजा माद्रीपुत्रौ च पाण्डवौ ।
मिषतां सर्वसैन्यानां द्रोणानीकमुपाद्रवन् ॥ 6-58-12(41145)
तत्रासीत्सुमहद्युद्धं तुमुलं रोमहर्षणम् ।
यथा देवासुरं युद्धं पूर्वमासीत्सुदारुणम् ॥ 6-58-13(41146)
कुर्वाणौ सुमहत्कर्म भीमसेनघटोत्कचौ।
दुर्योधनस्ततोऽभ्येत्य तावुभावप्यवारयत् ॥ 6-58-14(41147)
तत्राद्भुतमपश्याम हैडिम्बस्य पराक्रमम्।
अतीत्य पीतरं युद्धे यदयुध्यत भारत ॥ 6-58-15(41148)
भीमसेनस्तु संक्रुद्धो दुर्योधनममर्षणम्।
हृद्यविध्यत्पृषत्केन प्रहसन्निव पाण्डवः ॥ 6-58-16(41149)
ततो दुर्योधननो राजा प्रहारवरपीडितः।
निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ 6-58-17(41150)
तं विसंज्ञं विदित्वा तु त्वरमाणोऽस्य सारथिः ।
अपोवाह रणाद्राजंस्ततः सैन्यमभज्यत ॥ 6-58-18(41151)
ततस्तां कौरवीं सेनां द्रवमाणां समन्ततः।
निघ्नन्भीमः शरैस्तीक्ष्णैरनुवव्राज पृष्ठतः ॥ 6-58-19(41152)
पार्षतश्च रथश्रोष्ठो धर्मपुत्रश्च पाण्डवः।
द्रोणस्य पश्यतः सैन्यं गाङ्गेयस्य च पश्यतः ॥ 6-58-20(41153)
जघ्नतुर्विशिकैस्तीक्ष्णैः परानीकविनाशनैः ।
द्रवमाणं तु तत्सैन्यं तव पुत्रस्य संयुगे ॥ 6-58-21(41154)
नाशक्नुतां वारयितुं भीष्मद्रोणौ महारथौ ।
वार्यमाणं च भीष्मेण द्रोणेन च महात्मना ॥ 6-58-22(41155)
विद्रवत्येव तत्सैन्यं पश्यतोर्द्रोणभीष्मयोः।
ततो रथसहस्रेषु विद्रवत्सु ततस्ततःक ॥ 6-58-23(41156)
तावास्थितावेकरथं सौभद्रशिनिपुङ्गवौ ।
सौबलीं समरे सेनां शातयेतां समन्ततः ॥ 6-58-24(41157)
शुशुभाते तदा तौ तु शैनेयकुरुपुङ्गवौ।
अमावास्यां गतौ यद्वत्सोमसूर्यौ नभस्तले ॥ 6-58-25(41158)
अर्जुनस्तु ततः क्रुद्धस्तव सैन्यं विशांपते ।
ववर्ष शरवर्षेण धाराभिरिव तोयदः ॥ 6-58-26(41159)
वध्यमानं ततस्तत्र शरैः पार्थस्य संयुगे।
दुद्राव कौरवं सैन्यं विषादभयकम्पितम् ॥ 6-58-27(41160)
द्रवतस्तान्समालक्ष्य भीष्मद्रोणौ महारथौ ।
न्यवारयेतां संरब्धौ दुर्योधनहितैषिणौ ॥ 6-58-28(41161)
ततो दुर्योधनो राजा समाश्वस्य विशांपते ।
न्यवर्तयत तत्सैन्यं द्रवमाणां समन्ततः ॥ 6-58-29(41162)
यत्र यत्र हि पुत्रं ते ये ये पश्यन्ति भारत।
तत्र तत्र न्यवर्तन्त क्षत्रियाणां महरथाः ॥ 6-58-30(41163)
तान्निवृत्तान्समीक्ष्यैव ततोऽन्येऽपीतरे जनाः।
अन्योन्यस्पर्धया राजँल्लज्जया चावतस्थिरे ॥ 6-58-31(41164)
पुनरावर्ततां तेषां वेग आसीद्विशांपते।
पूर्यतः सागरस्येव चन्द्रस्योदयनं प्रति ॥ 6-58-32(41165)
अन्निवृत्तांस्ततस्तांस्तु दृष्ट्वा राजा सुयोधनः।
अब्रवीत्त्वरितो गत्वा भीष्मं शान्तनवं वचः ॥ 6-58-33(41166)
पितामह निबोधेदं यत्त्वां वक्ष्यामि भारत।
नानुरूपमहं मन्ये त्वयि जीवति कौरव ॥ 6-58-34(41167)
द्रोणो चास्त्रविदां श्रेष्ठे सपुत्रे ससुहृञ्जने।
कृपे चैव महेष्वासे द्रवते यद्वरूथिनी ॥ 6-58-35(41168)
न पाण्डवान्प्रतिलांस्तव मन्ये कथंचन ।
तथा द्रोणस्य सङ्ग्रमे द्रौमेश्चैव कृपस्य च ॥ 6-58-36(41169)
अनुग्राह्याः पाण्डुसुतास्तव नूनं पितामह ।
यथेमां क्षमसे वीर वध्यमानां वरूथिनीम् ॥ 6-58-38aसोऽस्मि वाच्यस्त्वया राजन्पूर्वमेव समागमे।
न योत्स्ये पाण्डवान्सङ्ख्ये नापि पार्षतसात्यकी ॥ 6-58-37(41170)
श्रुत्वा तु वचनं तुभ्यमाचार्यस्य कृपस्य च।
कर्णेन सहितः कृत्यं चिन्तयानस्तदैव हि ॥ 6-58-39(41171)
यदि नाहं परित्याज्यो युवाभ्यामिह संयुगे ।
विक्रमेणानुरूपेण युध्येतां पुरुषर्षभौ ॥ 6-58-40(41172)
एतच्छ्रुत्वा वचो भीष्मः प्रहसन्वै मुहुर्मुहुः ।
अब्रवीत्तनयं तुभ्यं क्रोधादुद्वृत्य चक्षुषी ॥ 6-58-41(41173)
बहुशोऽसि मया राजंस्तथ्यमुक्तो हितं वचः।
अजेयाः पाण्डवा युद्धे देवैरपि सवासवैः ॥ 6-58-42(41174)
यत्तु शक्यं मया कर्तुं वृद्धेनाद्य गतायुषा।
करिष्यामि यथाशक्ति पश्येदानीं सबान्धवः ॥ 6-58-43(41175)
अद्य पाण्डुसुतानेकः ससैन्यान्सह बन्धुभिः ।
सोऽहं निवारयिष्यामि सर्वलोकस्य पश्यतः ॥ 6-58-44(41176)
एवमुक्ते तु भीष्मेण पुत्रास्तव जनेश्वर ।
दध्मुः शङ्खान्मुदा युक्ता भेरीः संजघ्निरे भृशम् ॥ 6-58-45(41177)
पाण्डवा हि ततो राजञ्श्रुत्वा तं निनदं महत्।
दध्मुः शङ्खांश्च भेरीश्च मुरजांश्चाप्यनादयन् ॥ ॥ 6-58-46(41178)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे अष्टपञ्चाशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-58-2 कोष्ठकीकृत्य वेष्टयित्वा ॥ 6-58-39 चिन्तयानः अभविष्यमिति शेषः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|